शिवषडक्षर स्तोत्र
ऒंकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन l
कामदं मोक्षदं चैव "ऒं" काराय नमो नमः ll
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः l
नरा नमंति देवेशं "न" काराय नमो नमः ll
महादेवं महात्मानं महाध्यानं परायणम l
महापापहरं देवं "म" काराय नमो नमः ll
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम l
शिवमेकपदं नित्यं "शि" काराय नमो नमः ll
वाहनं वृषभो यस्य वासुकिः कंठभूषणम l
वामे शक्तिधरं वेदं "व" काराय नमो नमः ll
यत्र तत्र स्थितो देवः सर्वव्यापी महेश्वरः l
यो गुरुः सर्वदेवानां "य" काराय नमो नमः ll
षडक्षरमिदं स्तोत्रं यः पठेच्च्हिवसंनिधौ l
शिवलोकमवाप्नोति शिवेन सह मोदते ll
इति श्री रुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं संपूर्णम ll